॥ श्रीः ॥
1.49. अध्यायः 049
Mahabharata - Adi Parva - Chapter Topics
जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
शौनक उवाच। 1-49-0x(231)(2068)
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः।
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥ 1-49-1(2069)
सौतिरुवाच। 1-49-2x(232)
शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा।
यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः॥ 1-49-2(2070)
जनमेजय उवाच। 1-49-3x(233)
जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम।
आसीद्यथा स निधनं गतः काले महायशाः॥ 1-49-3(2071)
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः।
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्॥ 1-49-4(2072)
सौतिरुवाच। 1-49-5x(234)
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना।
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्॥ 1-49-5(2073)
मन्त्रिण ऊचुः। 1-49-6x(235)
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः।
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः॥ 1-49-6(2074)
धर्मात्मा च महात्मा च प्रजापालः पिता तव।
आसीदिहायथा वृत्तः स महात्मा शृणुष्व तत्॥ 1-49-7(2075)
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत।
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥ 1-49-8(2076)
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः।
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन॥ 1-49-9(2077)
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥ 1-49-10(2078)
स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः।
विधवानाथविकलान्कृपणांश्च बभार सः॥ 1-49-11(2079)
सुदर्शः सर्वभूतानामासीत्सोम इवापरः।
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः॥ 1-49-12(2080)
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः।
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय॥ 1-49-13(2081)
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः।
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्॥ 1-49-14(2082)
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली।
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः॥ 1-49-15(2083)
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता।
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः॥ 1-49-16(2084)
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्।
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्॥ 1-49-17(2085)
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्।
इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्।
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः॥ 1-49-18(2086)
जनमेजय उवाच। 1-49-19x(236)
नास्मिन्कुले जातु बभूव राजा
यो न प्रजानां प्रियकृत्प्रियश्च।
विशेषतः प्रेक्ष्य पितामहानां
वृत्तं महद्वृत्तपरायणानाम्॥ 1-49-19(2087)
कथं निधनमापन्नः पिता मम तथाविधः।
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥ 1-49-20(2088)
सौतिरुवाच। 1-49-21x(237)
एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम्।
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः॥ 1-49-21(2089)
मन्त्रिण ऊचुः। 1-49-22x(238)
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः।
बभूव मृगयाशीलस्तव राजन्पिता सदा॥ 1-49-22(2090)
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः॥ 1-49-23(2091)
स कदाचिद्वनगतो मृगं विव्याध पत्रिणा।
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने॥ 1-49-24(2092)
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्।
न चाससाद गहने मृगं नष्टं पिता तव॥ 1-49-25(2093)
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः।
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्॥ 1-49-26(2094)
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम्।
न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा॥ 1-49-27(2095)
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्।
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः॥ 1-49-28(2096)
न बुबोध च तं राजा मौनव्रतधरं मुनिम्।
स तं क्रोधसमाविष्टो धर्षयामास ते पिता॥ 1-49-29(2097)
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्।
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम॥ 1-49-30(2098)
न चोवाच स मेधावी तमथो साध्वसाधु वा।
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्॥ ॥ 1-49-31(2099)